उ॒प॒या॒मगृ॑हीतोऽस्यादि॒त्येभ्य॑स्त्वा । विष्ण॑ उरुगायै॒ष ते॒ सोम॒स्तᳪ र॑क्षस्व॒ मा त्वा॑ दभन्
upayā́ma-gṛhīto ’sy ādityébhyaḥ tvā | víṣṇo urugāya eṣá te sómas táṃ rakṣasva mā́ tvā dabhān
Tomado com o Upayāma estás, para os Āditya. Ó Viṣṇu de largos passos, este Soma é teu: guarda-o, para que não te causem dano.
उप-याम-गृहीतः । असि । आदित्येभ्यः । त्वा । विष्णो इति । उरु-गाय । एषः । ते । सोमः । तम् । रक्षस्व । मा । त्वा । दभन्