ऐ॒न्द्रः प्रा॒णो अङ्गे॑ अङ्गे॒ नि दी॑ध्यदै॒न्द्र उ॑दा॒नो अङ्गे॑ अङ्गे॒ निधी॑तः । देव॑ त्वष्ट॒र्भूरि॑ ते॒ सᳪ स॑मेतु॒ सल॑क्ष्मा॒ यद्विषु॑रूपं॒ भवा॑ति । दे॑व॒त्रा यन्त॒मव॑से॒ सखा॒योऽनु॑ त्वा मा॒ता पि॒तरो॑ मदन्तु
aíndraḥ prāṇó aṅgé aṅge ní dīdhya(d) aíndra udā́nó aṅgé aṅge nídhītaḥ | deva tvaṣṭar bhū́ri te sáṃ sametu sálakṣmā yád víṣurūpaṃ bhávāti | devatrā́ yántam ávase sákhāyo'nu tvā mātā́ pitaro madantu
O sopro de Indra foi aceso em cada membro; o sopro ascendente de Indra foi estabelecido em cada membro. Ó deus Tvaṣṭṛ, que uma força abundante se reúna para ti — com sinais auspiciosos, ainda que se torne multiforme. Indo para junto dos deuses em busca de amparo, que os amigos te sigam; que a mãe e os pais se alegrem em ti.
ऐन्द्रः । प्राणः । अङ्गे अङ्गे । नि । दीध्यत् । ऐन्द्रः । उदानः । अङ्गे अङ्गे । नि-धीतः । देव । त्वष्टः । भूरि । ते । सम् । सम्-एतु । स-लक्ष्मा । यत् । विषु-रूपम् । भवति । देव-त्रा । यन्तम् । अवसे । सखायः । अनु । त्वा । माता । पितरः । मदन्तु