अ॒ग्नाव॒ग्निश्च॑रति॒ प्रवि॑ष्ट॒ ऋषी॑णां पु॒त्रो अ॑भिशस्ति॒पावा॑ । स न॑: स्यो॒नः सु॒यजा॑ यजे॒ह दे॒वेभ्यो॑ ह॒व्यᳪ सद॒मप्र॑युच्छ॒न्त्स्वाहा॑
agnā́v agníś carati práviṣṭa ṛ́ṣīṇāṃ putró abhiśastipā́vā | sá naḥ syonáḥ suyájā yajéhá devébhyo havyáṃ sadám aprayúcchan svā́hā
Agni move-se em Agni, nele tendo entrado; filho dos Ṛṣi, purificador da maldição. Que ele nos seja benigno, fácil de venerar; aqui sacrifica, sem falha, oferecendo sempre a oblação aos deuses — Svāhā!
अग्नौ । अग्निः । चरति । प्रविष्टः । ऋषीणाम् । पुत्रः । अभिशस्ति-पावः । सः । नः । स्योनः । सु-यजाः । यज । इह । देवेभ्यः । हव्यम् । सदम् । अ-प्रयुच्छन् । स्वाहा ।