वि॒भूर॑सि प्र॒वाह॑णो॒ वह्नि॑रसि हव्य॒वाह॑नः । श्वा॒त्रो॒ऽसि॒ प्रचे॑तास्तु॒थो॑ऽसि वि॒श्ववे॑दाः
vi̱bhū́r asi pra̱vā́haṇo vahnír asi havya̱vā́hanaḥ | śvā̱tro ’si práce̍tās tuthó ’si vi̱śváve̍dāḥ
Tu és o Onipenetrante; tu és o que leva adiante. Tu és o Portador; tu és o que conduz a oferenda. Tu és o Veloz; tu és o que sabe de antemão. Tu és o Acendedor; tu és o Onisciente.
वि॒भूः॑ असि । प्र॒वाह॑णः । वह्निः॑ असि । हव्य॒वाह॑नः । श्वा॒त्रः॑ असि । प्रचे॑ताः । तु॒थः॑ असि । वि॒श्व-वे॑दाः ।