अ॒न्यदे॒वाहुः स॑म्भ॒वाद॒न्यदा॑हु॒रस॑म्भवात् । इति॑ शुश्रुम॒ धीरा॑णां॒ ये न॒स्तद्वि॑चचक्षि॒रे
anyád evā́huḥ sámbhavād anyád ā́hur asámbhavāt | íti śuśruma dhīrā́ṇāṃ yé nas tád vicacakṣiré ||
« Uma coisa, em verdade, dizem, obtém-se do devir; outra, dizem, do não-devir ». Assim o ouvimos dos sábios, que o discerniram com clareza e no-lo expuseram.
अन्यत् । एव । आहुः । सम्भवात् । अन्यत् । आहुः । असम्भवात् । इति । शुश्रुम । धीराणाम् । ये । नः । तत् । विचचक्षिरे ।