आ रोद॑सी अपृण॒दा स्व॑र्म॒हज्जा॒तं यदे॑नम॒पसो॒ अधा॑रयन् । सो अ॑ध्व॒राय॒ परि॑ णीयते क॒विरत्यो॒ न वाज॑सातये॒ चनो॑हितः
ā ródasī apṛṇadā́ svàr-maháj jā́taṃ yád enam apáso ádhārayann | só adhvarā́ya pári nīyate kavír átyo ná vā́ja-sātaye cánō-hitaḥ
Tu encheste os dois Mundos; encheste a grande luz celeste, quando as Águas sustentaram o que nascera. Ele, o Sábio, é conduzido em torno para o sacrifício, como um corcel para a conquista do prêmio, aqui colocado para o nosso deleite.
आ । रोदसी इति । अपृणदाः । स्वः । महत् । जातम् । यत् । एनम् । अपसः । अधारयन् । सः । अध्वराय । परि । नीयते । कविः । अत्यः । न । वाजसातये । चनः-हितः ।