आ न॒ इडा॑भिर्वि॒दथे॑ सुश॒स्ति वि॒श्वान॑रः सवि॒ता दे॒व ए॑तु । अपि॒ यथा॑ युवानो॒ मत्स॑था नो॒ विश्वं॒ जग॑दभिपि॒त्वे म॑नी॒षा
ā́ na idā́bhir vidáthe suśastí vaiśvā́naraḥ savitā́ devá etu | apí yáthā yuvā́nau mátsathā no víśvaṃ jágad abhipítve manīṣā́
Para nós, com as invocações de Idā, na assembleia solene, venha o deus Savitar, Vaiśvānara; para que, como dois jovens, vos alegreis conosco, e para que todo este mundo em movimento, por nosso intento sábio, alcance a libação (a bebida sagrada).
आ । नः । इडा॑भिः । वि॒दथे॑ । सु॒-श॒स्ति । वि॒श्वा-न॑रः । स॒वि॒ता । दे॒वः । ए॒तु । अ॒पि । यथा॑ । यु॒वा॒नौ । मत्स॑था । नः । विश्व॑म् । जग॑त् । अ॒भि॒-पी॒त्वे । म॒नी॒षा