ऋ॒तव॑स्ते य॒ज्ञं वि त॑न्वन्तु॒ मासा॒ रक्ष॑न्तु ते॒ हवि॑: । सं॒व॒त्स॒रस्ते॑ य॒ज्ञं द॑धातु नः प्र॒जां च॒ परि॑ पातु नः
ṛtávaḥ te yajñáṃ ví tanvantu mā́sā rakṣantu te havíḥ | saṃvatsaráḥ te yajñáṃ dadhātu naḥ prajā́ṃ ca párī pātu naḥ
Que as Estações estendam o teu sacrifício; que os Meses guardem a tua oblação (havis). Que o Ano estabeleça o teu sacrifício e proteja por inteiro a nossa descendência.
ऋतवः । ते । यज्ञम् । वि । तन्वन्तु । मासाः । रक्षन्तु । ते । हविः । संवत्सरः । ते । यज्ञम् । दधातु । नः । प्रजाम् । च । परि । पातु । नः ।