कृ॒ष्णग्री॑वा आग्ने॒याः शि॑ति॒भ्रवो॒ वसू॑ना॒ᳪ रोहि॑ता रु॒द्राणा॑ᳪ श्वे॒ता अ॑वरो॒किण॑ आदि॒त्यानां॒ नभो॑रूपाः पार्ज॒न्याः
kṛṣṇagrī́vā āgneyā́ḥ śitibhrávo vásūnāṃ róhitā rudrā́ṇāṃ śvetā́ avarokíṇa ādityā́nāṃ nábhorūpāḥ pārjanyā́ḥ
De pescoço negro são os de Agni; de sobrancelha luminosa os dos Vasus; ruivos os dos Rudras; brancos, com a faixa inferior, os dos Ādityas; e os de Parjanya são de forma celeste, com a figura do céu.
कृष्ण-ग्रीवाः । आग्नेयाः । शिति-भ्रवः । वसूनाम् । रोहिताः । रुद्राणाम् । श्वेताः । अव-रोकिणः । आदित्यानाम् । नभः-रूपाः । पार्जन्याः ।