नार्य॑स्ते॒ पत्न्यो॒ लोम॒ विचि॑न्वन्तु मनी॒षया॑ । दे॒वानां॒ पत्न्यो॒ दिश॑ः सू॒चीभि॑ः शम्यन्तु त्वा
nā́ryas te pátnyo lóma vicínvantu manīṣáyā | devā́nāṃ pátnyo díśaḥ sū́cībhiḥ śamyantu tvā
Que as tuas mulheres, as tuas esposas, com discernimento atento, separem os pelos; que as esposas dos deuses —as Direções— com as suas agulhas te alisem e te disponham na devida ordem.
नार्यः । ते । पत्न्यः । लोम । वि-चि॑न्वन्तु । मनी॒षया॑ । दे॒वानाम् । पत्न्यः । दिशः । सू॒चीभिः । शम्यन्तु । त्वा ।