आ न॒ इन्द्रो॒ हरि॑भिर्या॒त्वच्छा॑र्वाची॒नोऽव॑से॒ राध॑से च । तिष्ठा॑ति व॒ज्री म॒घवा॑ विर॒प्शीमं य॒ज्ञमनु॑ नो॒ वाज॑सातौ
ā na índro háribhir yātv ácchārvācī́no’vase rā́dhase ca | tíṣṭhāti vajrī́ mághavā virapśī́m imáṃ yajñám ánu no vā́jasātau ||
Que Indra venha a nós com seus corcéis fulvos, voltado para cá, para nosso socorro e para nossa dádiva. Armado do vajra, o generoso, de alcance longínquo, permanece junto a este nosso sacrifício, na conquista de força e de prêmio.
आ । नः । इन्द्रः । हरिभिः । यातु । अच्छ । अर्वाचीनः । अवसे । राधसे । च । तिष्ठाति । वज्री । मघवा । विरप्शीम् । इमम् । यज्ञम् । अनु । नः । वाजसातौ ।