मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वत॒ आ ज॑गन्था॒ पर॑स्याः । सृ॒कᳪ स॒ᳪशाय॑ प॒विमि॑न्द्र ति॒ग्मं वि शत्रू॑न् ताढि॒ वि मृधो॑ नुदस्व ॥
mṛgó na bhīmáḥ kucaró giriṣṭhā́ḥ parāváta ā́ jagántha párasyāḥ | sṛ́kaṃ saṃśā́ya pavím indra tigmáṃ ví śatrū́n tāḍhi ví mṛ́dho nudásva ||
Como fera terrível que percorre veredas secretas, morador das montanhas, vieste da região longínqua, de além. Aguçando a tua mandíbula, ó Indra, o teu Vajra de gume afiado, fere os inimigos; repele, afasta as opressões.
मृगः । न । भीमः । कुचरः । गिरिष्ठाः । परावतः । आ । जगन्थ । परस्याः । सृकम् । सं-शाय । पविम् । इन्द्र । तिग्मम् । वि । शत्रून् । ताढि । वि । मृधः । नुदस्व ।