यद्द॒त्तं यत्प॑रा॒दानं॒ यत्पू॒र्तं याश्च॒ दक्षि॑णाः । तद॒ग्निर्वै॑श्वकर्म॒णः स्व॑र्दे॒वेषु॑ नो दधत्
yád dattaṃ yát parādā́naṃ yát pūrtáṃ yā́ś ca dákṣiṇāḥ | tád agnír vaiśvakarmaṇáḥ svàr devéṣu no dadhat ||
O que é dado, o que é concedido, o que é pūrta, e quaisquer que sejam as dakṣiṇā — que Agni, o Vaiśvakarman, o estabeleça para nós no céu, entre os deuses.
यत् । द॒त्तम् । यत् । प॒रा॒दानम् । यत् । पू॒र्तम् । याः । च॒ । दक्षि॑णाः । तत् । अ॒ग्निः । वै॒श्व॒क॒र्म॒णः । स्वः॑ । दे॒वेषु॑ । नः॑ । द॒ध॒त् ।