वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमदि॑तिं॒ नाम॒ वच॑सा करामहे । यस्या॑मि॒दं विश्वं॒ भुव॑नमावि॒वेश॒ तस्यां॑ नो दे॒वः स॑वि॒ता धर्म॑ साविषत्
vā́jasya nú prasavé mātáraṃ mahī́m áditiṃ nā́ma vácasā karāmahe | yásyām idáṃ víśvaṃ bhúvanam āvivéśa tásyāṃ no deváḥ savitā́ dhárma sāviṣat
Agora, pelo impulso de Vāja, com palavra solene invocamos pelo nome a poderosa Mãe, Aditi, em quem entrou todo este universo do ser; nela, que o deus Savitṛ impulsione para nós a lei sagrada (dharma).
वाजस्य । नु । प्रसवे । मातरम् । महीम् । अदितिम् । नाम । वचसा । करामहे । यस्याम् । इदम् । विश्वम् । भुवनम् । आविवेश । तस्याम् । नः । देवः । सविता । धर्म । साविषत् ।