तप॑श्च तप॒स्य॒श्च शैशि॒रावृ॒तू अ॒ग्नेर॑न्तः श्ले॒षो॒ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धय॒: कल्प॑न्ताम॒ग्नय॒: पृथ॒ङ्मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः। ये अ॒ग्नय॒: सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे| शै॒शि॒रावृ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वे सी॑दतम्
tápaś ca tapasyáś ca śaiśiráu ṛtū́ agnér antaḥ śléṣo ’si kálpetāṃ dyā́vā-pṛthivī́ kálpantām ā́pa óṣadhayaḥ kálpantām agnáyaḥ pṛtháṅ mama jyáiṣṭhyāya savrátāḥ | yé agnáyaḥ sámanaso ’ntarā́ dyā́vā-pṛthivī́ imé | śaiśiráu ṛtū́ abhikálpamānā indrám iva devā́ abhisaṃvíśantu táyā devátayā ’ṅgirasvád dhrúve sī́datam
Tapas e aquilo que é de Tapas; as duas estações frias — Śaiśira e Hemanta: tu és a coesão interior de Agni. Que Céu e Terra sejam devidamente ordenados; que as Águas sejam devidamente ordenadas; que as Plantas sejam devidamente ordenadas; que os Fogos — cada um à parte, de um mesmo voto — sejam devidamente ordenados para a minha supremacia. Aqueles Fogos que, de um só pensamento, estão entre o Céu e a Terra: ajustando-se ao rito nas estações frias, entrem para junto de Indra, como os deuses nele entram de todos os lados. Com essa divindade, ó semelhante a Aṅgiras, assenta-te firmemente: assenta-te estável, ó Dhruvā.
तपः॑ । च॒ । तप॒स्यः॑ । च॒ । शै॒शि॒रौ । ऋ॒तू इति॑ । अ॒ग्नेः । अ॒न्तः । श्ले॒षः । अ॒सि॒ । कल्पे॑ताम् । द्यावा॑-पृथि॒वी इति॑ । कल्प॑न्ताम् । आपः॑ । ओष॑धयः । कल्प॑न्ताम् । अ॒ग्नयः॑ । पृथ॑क् । मम॑ । ज्यैष्ठ्या॑य । स-व्र॑ताः । ये । अ॒ग्नयः॑ । सम॑नसः । अ॒न्त॒रा । द्यावा॑-पृथि॒वी इति॑ । इ॒मे । शै॒शि॒रौ । ऋ॒तू इति॑ । अ॒भि॒-कल्प॑मानाः । इन्द्र॑म्-इव । दे॒वाः । अ॒भि॒-सम्-वि॑शन्तु । तया॑ । दे॒वत॑या । अ॒ङ्गि॒र॒स्वत् । ध्रु॒वे । सी॑दतम्