न॒वद॒शभि॑रस्तुवत शूद्रा॒र्याव॑सृज्येतामहोरा॒त्रे अधि॑पत्नी आस्ता॒मेक॑विᳪशत्यास्तुव॒तैक॑शपाः प॒शवो॑ऽसृज्यन्त॒ वरु॒णोऽधि॑पतिरासी॒त् त्रयो॑विᳪशत्यास्तुवत क्षु॒द्रा: प॒शवो॑ऽसृज्यन्त पू॒षाऽधि॑पतिरासी॒त् पञ्च॑विᳪशत्यास्तुवतार॒ण्याः प॒शवो॑ऽसृज्यन्त वा॒युरधि॑पतिरासीत् स॒प्तवि॑ᳪशत्याऽस्तुवत॒ द्यावा॑पृथि॒वी व्यै॑तां॒ वस॑वो रु॒द्रा आ॑दि॒त्या अ॑नु॒व्या॒यँ॒स्त ए॒वाधि॑पतय आसन्
návadaśábhir astuvat śūdrā́ryāv asṛjyetām ahorātré ádhipatny āstām ekaviṁśatyā́stuvatáikaśapā́ḥ paśávo ’sṛjyanta váruṇo ’dhipatir āsīt trayoviṁśatyā́stuvat kṣudrā́ḥ paśávo ’sṛjyanta pūṣā́ ’dhipatir āsīt pañcaviṁśatyā́stuvatāraṇyā́ḥ paśávo ’sṛjyanta vāyúr adhipatir āsīt saptaviṁśatyā́stuvat dyā́vā-pṛthivī́ vyàitām vásavo rudrā́ ādityā́ anuvyāyáṁs ta evā́dhipataya āsan
Com dezenove (versos) ele louvou: foram criados o Śūdra e o Ārya; o Dia e a Noite permaneceram como suas esposas regentes. Com vinte e um ele louvou: foram criados os animais de um só casco; Varuṇa foi seu senhor. Com vinte e três ele louvou: foram criados os pequenos animais; Pūṣan foi seu senhor. Com vinte e cinco ele louvou: foram criados os animais da floresta; Vāyu foi seu senhor. Com vinte e sete ele louvou: Céu e Terra se apartaram; os Vasus, os Rudras e os Ādityas, expandindo-se em sequência — esses mesmos foram os senhores disso.
नवदशभिः । अस्तुवत । शूद्र-आर्यौ । असृज्येताम् । अहो-रात्रे । अधि-पत्नी । आस्ताम् । एकविंशत्या । अस्तुवत । एक-शपाः । पशवः । असृज्यन्त । वरुणः । अधि-पतिः । आसीत् । त्रयोविंशत्या । अस्तुवत । क्षुद्राः । पशवः । असृज्यन्त । पूषा । अधि-पतिः । आसीत् । पञ्चविंशत्या । अस्तुवत । अरण्याः । पशवः । असृज्यन्त । वायुः । अधि-पतिः । आसीत् । सप्तविंशत्या । अस्तुवत । द्यावा-पृथिवी । व्यैताम् । वसवः । रुद्राः । आदित्याः । अनुव्यायन् । ते । एव । अधि-पतयः । आसन्