मा॒तेव॑ पु॒त्रं पृ॑थि॒वी पु॑री॒ष्य॒म॒ग्निᳪ स्वे योना॑वभारु॒खा । तां विश्वै॑र्दे॒वैरृ॒तुभि॑: संविदा॒नः प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ वि मु॑ञ्चतु
mā́teva putráṃ pṛthivī́ purīṣyám agníṃ své yónāv abhā́rukhā | tā́ṃ víśvair deváir ṛtúbhiḥ saṃvidānáḥ prajā́patir víśvakarmā́ ví muñcatu
Como uma mãe ao filho, assim a Terra, portadora de purīṣa, ergueu Agni no seu próprio seio. Em concordância com todos os deuses e com as estações, que Prajāpati, o Artífice universal (Viśvakarman), a solte e a torne sem laços.
माता-इव । पुत्रम् । पृथिवी । पुरीष्यम् । अग्निम् । स्वे । योनौ । अभि-आरु॒खा । ताम् । विश्वैः । देवैः । ऋतुभिः । संविदानः । प्रजापतिः । विश्वकर्मा । वि । मुञ्चतु ।