उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मᳪ श्र॑थाय । अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम
úd uttamáṃ varuṇa pā́śam asmád avā́dhamáṃ ví madhyamáṃ śrathāya | áthā vayám āditya vraté tavānā́gaso áditaye syāma
Desata de nós, ó Varuṇa, o laço mais alto; desata o mais baixo; solta o do meio. Então, ó Āditya, permanecendo no teu voto (vrata), sejamos sem culpa e pertençamos a Aditi, a Ilimitada.
उत् । उत्तमम् । वरुण । पाशम् । अस्मत् । अवाधमम् । वि । मध्यमम् । श्रथाय । अथ । वयम् । आदित्य । व्रते । तव । अनागसः । अदितये । स्याम