यदत्त्यु॑प॒जिह्वि॑का॒ यद्व॒म्रो अ॑ति॒सर्प॑ति । सर्वं॒ तद॑स्तु ते घृ॒तं तज्जु॒षस्व॑ यविष्ठ्य
yád átty upajihvikā́ yád vamró atisárpati | sárvaṃ tád astu te ghṛtáṃ táj juṣasva yaviṣṭhya
O que a Upajihvikā devora, o que a formiga percorre ao rastejar — que tudo isso seja para ti como ghee; aceita-o com benevolência, ó o mais jovem.
यत् । अत्ति । उप-जिह्विका । यत् । वम्रः । अति-सर्पति । सर्वम् । तत् । अस्तु । ते । घृतम् । तत् । जुषस्व । यविष्ठ्य