आ वि॒श्वत॑: प्र॒त्यञ्चं॑ जिघर्म्यर॒क्षसा॒ मन॑सा॒ तज्जु॑षेत । मर्य॑श्री स्पृह॒यद्व॑र्णो अ॒ग्निर्नाभि॒मृशे॑ त॒न्वा जर्भु॑राणः
ā́ viśvátas pratyáñcaṃ jigharmy arakṣásā mánasā tád juṣeta | máryaśrī spṛhayádvarṇo agnír nā́bhimṛśe tanvā́ jarbhurā́ṇaḥ
De todos os lados eu te unjo, voltado para cá, com uma mente não maculada pelos Rakṣas; que ele o aceite. Agni, glorioso como um jovem herói, de cor desejável, tocando o umbigo, tremendo com o corpo em ávido movimento.
आ । वि॒श्वतः । प्र॒ति-अञ्चम् । जिघर्मि । अ॒र॒क्षसा॑ । मन॑सा । तत् । जु॑षेत । मर्य॑-श्रीः । स्पृह॒यत्-व॑र्णः । अ॒ग्निः । नाभि॒-मृशे॑ । त॒न्वा । जर्भु॑राणः