यु॒ष्मा इन्द्रो॑ऽवृणीत वृत्र॒तूर्ये॑ यू॒यमिन्द्र॑मवृणीध्वं वृत्र॒तूर्ये॒ प्रोक्षि॑ता स्थ । अ॒ग्नये॑ त्वा॒ जुष्टं॒ प्रोक्षा॑म्य॒ग्नीषोमा॑भ्यां त्वा॒ जुष्टं॒ प्रोक्षा॑मि । दैव्या॑य॒ कर्म॑णे शुन्धध्वं देवय॒ज्यायै॒ यद्वोऽशु॑द्धाः पराज॒घ्नुरि॒दं व॒स्तच्छु॑न्धामि
yuṣmā́ índro ’vṛṇīta vṛtra-tū́rye yūyám índram avṛṇīdhvaṃ vṛtra-tū́rye prokṣitā́ stha | agnáye tvā juṣṭáṃ prokṣā́my agnī́ṣomābhyāṃ tvā juṣṭáṃ prokṣā́mi | daivyā́ya kármaṇe śundhadhvaṃ devayajyā́yai yád vo ’śúddhāḥ parājaghnúr idáṃ vás tát chundhāmi
Dentre vós Indra escolheu (os seus) para o ímpeto que abate Vṛtra; escolhei, pois, Indra para o ímpeto que abate Vṛtra: estais aspergidos. A ti, agradável a Agni, eu asperjo; a ti, agradável a Agni e a Soma, eu asperjo. Para a obra divina purificai-vos, para o culto aos deuses (devayajyā); se, impuros, derrubastes (o inimigo), — isto é vosso: isso eu purifico.
युष्माः । इन्द्रः । अवृणीत । वृत्र-तूर्ये । यूयम् । इन्द्रम् । अवृणीध्वम् । वृत्र-तूर्ये । प्रोक्षिताḥ । स्थ । अग्नये । त्वा । जुष्टम् । प्रोक्षामि । अग्नीषोमाभ्याम् । त्वा । जुष्टम् । प्रोक्षामि । दैव्याय । कर्मणे । शुन्धध्वम् । देव-यज्यायै । यत् । वः । अशुद्धाः । पराजघ्नुः । इदम् । वः । तत् । शुन्धामि