होता॑ यक्ष॒न्नरा॒शᳪसं॒ न न॒ग्नहुं॒ पति॒ᳪ सुर॑या भेष॒जं मे॒षः सर॑स्वती भि॒षग्रथो॒ न च॒न्द्रयश्विनो॑र्व॒पा इन्द्र॑स्य वी॒र्यं बद॑रैरुप॒वाका॑भिर्भेष॒जं तोक्म॑भि॒: पय॒: सोम॑: परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑
hótā yákṣan narāśáṃsaṃ ná nagnáhuṃ pátiṃ súrayā bheṣajáṃ méṣaḥ sárasvatī bhiṣág rathó ná candráyā’śvinór vapā́ índrasya vīryàṃ bádarair upavākā́bhir bheṣajáṃ tókma-bhiḥ páyaḥ sómaḥ parísrutā ghṛtáṃ mádhu vyàntv ā́jyasya hótar yaja
Let the Hotṛ offer unto Narāśaṃsa; (as) a lord (is) a remedy for the naked and needy, (so) with surā (be) a remedy; the ram (be) a remedy; Sarasvatī (be) a physician; as a chariot (is) a remedy by its shining (speed), (so) the Aśvins’ omentum (be) a remedy; (be) Indra’s heroic power. With badara-fruits, with upavākā-utterances, a remedy; with seeds a remedy. May the milk, the well-strained Soma, the ghee, the honey be wafted forth for the ghee-offering: O Hotṛ, sacrifice!
होता । यक्षन् । नराशंसम् । न । नग्नहुम् । पतिम् । सुरया । भेषजम् । मेषः । सरस्वती । भिषक् । रथः । न । चन्द्रया । अश्विनोः । वपा । इन्द्रस्य । वीर्यम् । बदरैः । उपवाकाभिः । भेषजम् । तोक्मभिः । पयः । सोमः । परिस्रुताः । घृतम् । मधु । व्यन्तु । आज्यस्य । होतः । यज