या वो॑ दे॒वाः सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुच॑: । इन्द्रा॑ग्नी॒ ताभि॒: सर्वा॑भी॒ रुचं॑ नो धत्त बृहस्पते
yā́ vo devāḥ sū́rye rúcó góṣv áśveṣu yā́ rúcaḥ | índrāgnī tā́bhiḥ sárvābhī rúcáṃ no dhatta bṛ́haspate
What splendours, O gods, are in the sun, what splendours are in cows and in horses,—with all those, O Indra and Agni, bestow on us splendour, O Bṛhaspati.
याः । वः । देवाः । सूर्ये । रुचः । गोषु । अश्वेषु । याः । रुचः । इन्द्रा-अग्नी । ताभिः । सर्वाभिः । रुचम् । नः । धत्त । बृहस्पते ।