द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्व॑: । स॒मा॒नं योनि॒मनु॑ स॒ञ्चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्रा॑:
drapáś cáskanda pṛthivī́m ánu dyā́m imáṃ ca yónim ánu yáś ca pū́rvaḥ | samānáṃ yónim ánu sañcárantaṃ drapáṃ juhómy ánu saptá hotrā́ḥ ||
The drop hath leapt along the earth, along yonder heaven, and along this womb, and that which was of old. Moving along the self-same womb, that drop I offer, following the seven priestly functions.
द्रप्सः । चस्कन्द । पृथिवीम् । अनु । द्याम् । इमम् । च । योनिम् । अनु । यः । च । पूर्वः । समानम् । योनिम् । अनु । सञ्चरन्तम् । द्रप्सम् । जुहोमि । अनु । सप्त । होत्राः ।