प॒वित्रे॑ स्थो वैष्ण॒व्यौ॒ सवि॒तुर्व॑: प्रस॒व उत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मिभि॑: । देवी॑रापो अग्रेगुवो अग्रेपु॒वोऽग्र॑ इ॒मम॒द्य य॒ज्ञं न॑य॒ताग्रे॑ य॒ज्ञप॑तिᳪ सु॒धातुं॑ य॒ज्ञप॑तिं देव॒युव॑म्
pavitré sthó vaiṣṇavyàu savitúr vaḥ prasavá utpunā́my ácchidreṇa pavítreṇa sū́ryasya raśmíbhíḥ | devī́r ā́po agre-guvo agre-puvó ’gré imám adyá yajñáṃ nayatā́gré yajñápatíṃ sudhā́tuṃ yajñápatíṃ deva-yúvam
Ye are the two strainers, of Viṣṇu; by the impulsion of Savitṛ do I cleanse (this), with the flawless strainer, with the rays of Sūrya. O divine Waters, ye that go before, ye that purify in front—lead ye this sacrifice to-day in front; lead in front the Lord of sacrifice, well-established, the Lord of sacrifice, attended by the gods.
प॒वित्रे॑ । स्थः । वैष्ण॒व्यौ॒ । सवि॒तुर्व॑ः । प्रस॒वः । उत्-पु॑ना॒मि । अ॒च्छि॑द्रेण । प॒वित्रे॑ण । सूर्य॑स्य । र॒श्मिभि॑ः । देवीः । आपः । अ॒ग्रे॒गु॒वः । अ॒ग्रे॒पु॒वः । अग्रे । इ॒मम् । अ॒द्य । य॒ज्ञम् । न॒य॒त । अग्रे । य॒ज्ञप॑तिम् । सु॒धातु॑म् । य॒ज्ञप॑तिम् । दे॒व॒युव॑म्