सम्भू॑तिं च विना॒शं च॒ यस्तद्वेदो॒भय॑ᳪ स॒ह । वि॒ना॒शेन॑ मृ॒त्युं ती॒र्त्वा सम्भू॑त्या॒मृत॑मश्नुते
sámbhūtiṃ ca vinā́śaṃ ca yás tád védo bháyaṃ sáha | vinā́śena mṛtyúṃ tīrtvā́ sámbhūtyā́mṛtam aśnute ||
Dia yang mengetahui kedua-duanya bersama—sambhūti (menjadi) dan vināśa (kebinasaan)—setelah menyeberangi maut dengan vināśa, ia mencapai amṛta (keabadian) dengan sambhūti.
सम्भूतिम् । च । विनाशम् । च । यः । तत् । वेद । उभयम् । सह । विनाशेन । मृत्युम् । तीर्त्वा । सम्भूत्या । अमृतम् । अश्नुते ।