याव॑ती॒ द्यावा॑पृथि॒वी याव॑च्च स॒प्त सिन्ध॑वो वितस्थि॒रे । तव॑न्तमिन्द्र ते॒ ग्रह॑मू॒र्जा गृ॑ह्णा॒म्यक्षि॑तं॒ मयि॑ गृह्णा॒म्यक्षि॑तम्
yā́vatī dyā́vāpr̥thivī́ yā́vac ca saptá síndhavo vitasthiré | tā́vantam indra té gráham ū́rjā́ gr̥hṇāmy ákṣitaṃ máyī gr̥hṇāmy ákṣitam
Sejauh Langit dan Bumi terbentang, dan sejauh Tujuh Sungai (sapta sindhavaḥ) telah meluas—sebesar itulah, wahai Indra, tegukanmu kuambil dengan daya (ūrjā); yang tidak binasa kuambil, yang tidak binasa dalam diriku kuambil.
यावती । द्यावा-पृथिवी । यावत् । च । सप्त । सिन्धवः । वितस्थिरे । तावन्तम् । इन्द्र । ते । ग्रहम् । ऊर्जाः । गृह्णामि । अक्षितम् । मयि । गृह्णामि । अक्षितम् ।