त्वमि॒मा ओष॑धीः सोम॒ विश्वा॒स्त्वम॒पो अ॑जनय॒स्त्वं गाः । त्वमा त॑तन्थो॒र्वन्तरि॑क्षं॒ त्वं ज्योति॑षा॒ वि तमो॑ ववर्थ
tvám imā́ óṣadhīḥ soma víśvās tvám ápo ajanayas tváṃ gā́ḥ | tvám ā́ tatanthorv ántárikṣaṃ tváṃ jyótiṣā ví támo vavartha ||
Engkau, wahai Soma, telah menumbuhkan segala tumbuh-tumbuhan ini; engkau telah menjadikan segala air, engkau juga lembu-lembu. Engkau telah membentangkan ruang antara yang luas; engkau, dengan cahaya, telah menghalau kegelapan.
त्वम् । इमाः । ओषधीः । सोम । विश्वाः । त्वम् । अपः । अजनयः । त्वम् । गाः । त्वम् । आ । ततन्थ । उर्व् । अन्तरिक्षम् । त्वम् । ज्योतिषा । वि । तमः । ववर्थ