इ॒च्छन्ति॑ त्वा सो॒म्यास॒: सखा॑यः सु॒न्वन्ति॒ सोमं॒ दध॑ति॒ प्रया॑ᳪसि । तिति॑क्षन्ते अ॒भिश॑स्तिं॒ जना॑ना॒मिन्द्र॒ त्वदा कश्च॒न हि प्र॑के॒तः
icchánti tvā somyā́ḥ sakhā́yaḥ sunvánti sómaṃ dádhati práyāṃsi | titíkṣante abhíśastiṃ jánānām índra tvádā́ kaścána hí práketáḥ ||
Wahai Indra, para sahabat pencinta Soma merindui Engkau; mereka memerah Soma, mereka menyediakan persembahan. Mereka menanggung sumpahan manusia; dan daripada-Mu sesungguhnya datang seseorang yang nyata kekuatan dan kebijaksanaannya.
इच्छन्ति । त्वा । सोम्याः । सखायः । सुन्वन्ति । सोमम् । दधति । प्रयांसि । तितिक्षन्ते । अभिशस्तिम् । जनानाम् । इन्द्र । त्वत् । आ । कश्चन । हि । प्रकेतः