धू॒म्रा ब॒भ्रुनी॑काशाः पितॄ॒णाᳪ सोम॑वतां ब॒भ्रवो॑ धू॒म्रनी॑काशाः पितॄ॒णां ब॑र्हि॒षदां॑ कृ॒ष्णा ब॒भ्रुनी॑काशाः पितॄ॒णाम॑ग्निष्वा॒त्तानां॑ कृ॒ष्णाः पृष॑न्तस्त्रैयम्ब॒काः
dhū́mrā babhrú-nīkāśāḥ pitṝ̄ṇā́m sómavatāṃ babhrávo dhū́mra-nīkāśāḥ pitṝ̄ṇā́m barhiṣádāṃ kṛ́ṣṇā babhrú-nīkāśāḥ pitṝ̄ṇā́m agniṣvāttā́nāṃ kṛ́ṣṇāḥ pṛ́ṣantaḥ traiyambakā́ḥ
Berwarna asap, berkilau keperangan, demikianlah para Pitṛ yang memiliki Soma; keperangan, berkilau seperti asap, demikianlah para Pitṛ yang duduk di atas Barhiṣ; hitam, berkilau keperangan, demikianlah para Pitṛ, para Agniṣvātta; hitam, berbintik-bintik, demikianlah para Traiyambaka.
धू॒म्राः । ब॒भ्रु-नी॑काशाः । पितॄ॒णाम् । सोम॑-वताम् । ब॒भ्रवः॑ । धू॒म्र-नी॑काशाः । पितॄ॒णाम् । ब॒र्हि॒षदाम्॑ । कृ॒ष्णाः । ब॒भ्रु-नी॑काशाः । पितॄ॒णाम् । अ॒ग्नि॒ष्वा॒त्ता॒नाम् । कृ॒ष्णाः । पृष॑न्तः । त्रै॒य॒म्ब॒काः ।