उप॑हूतो॒ द्यौष्पि॒तोप॒ मां द्यौ॑ष्पि॒ता ह्व॑यताम॒ग्निराग्नी॑ध्रा॒त्स्वाहा॑ । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । प्रति॑गृह्णाम्य॒ग्नेष्ट्वा॒स्ये॒न॒ प्राश्ना॑मि
úpahūto dyáuṣpitópá māṃ dyáuṣpitā hvayatām agnír āgnī́dhrāt svā́hā | devásya tvā savitúḥ prasavé’śvinór bāhúbhyāṃ pū́ṣṇo hástābhyām | pratí gṛhṇāmy agnéṣ ṭvā́syéna prā́śnāmi
Invoked am I: may Dyaus, the Father, call me hither; from the Āgnīdhra (seat) let Agni (come)—Svāhā! At the impulsion of the god Savitṛ I take thee, with the arms of the Aśvins, with the hands of Pūṣan. I receive thee; with Agni’s mouth I eat thee.
उप-हूतः । द्यौः-पिता । उप । माम् । द्यौः-पिता । ह्वयताम् । अग्निः । आ-ग्नीध्रात् । स्वाहा ।
देवस्य । त्वा । सवितुः । प्र-सवे । अश्विनोः । बाहुभ्याम् । पूष्णः । हस्ताभ्याम् ।
प्रति-गृह्णामि । अग्नेः । त्वा । आस्येन । प्र-अश्नामि