व्र॒तं च॑ म ऋ॒तव॑श्च मे॒ तप॑श्च मे संवत्स॒रश्च॑ मेऽहोरा॒त्रे ऊ॑र्वष्ठी॒वे बृ॑हद्रथन्त॒रे च॑ मे य॒ज्ञेन॑ कल्पन्ताम्
vrata̱ṃ ca ma ṛ̱tavaś ca me ta̱paś ca me saṃvatsa̱raś ca me’horā̱tre ca ma ūrvaṣṭhī̱ve bṛ̍hadrathanta̱re ca me yajñe̍na kalpantām
Semoga nazar (vrata) dan musim-musim (ṛtavaḥ), tapa (ketekunan-askese) dan tahun (saṃvatsara), siang dan malam, Ūrvaṣṭhīva, serta Bṛhat dan Rathantara—semoga semuanya ini diselaraskan dengan sepatutnya oleh Yajña (korban suci).
व्रतम् च मे । ऋतवः च मे । तपः च मे । संवत्सरः च मे । अहोरात्रे च मे । ऊर्वष्ठीवे च मे । बृहद्रथन्तरे च मे । यज्ञेन कल्पन्ताम् ।