विकि॑रिद्र॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः । यास्ते॑ स॒हस्र॑ᳪ हे॒तयो॒ऽन्यम॒स्मन्नि व॑पन्तु॒ ताः
vikíridra vilóhita námas te astu bhagavaḥ | yā́s te sahásraṃ hetáyo 'nyám asmán ní vapantu tā́ḥ ||
Wahai penyebar, wahai yang kemerah-merahan, sembah hormat bagimu, wahai Tuhan yang patut dipuja. Seribu senjatamu itu—biarlah semuanya dicampakkan ke tempat lain, jauh daripada kami.
विकि॑रि-द्र । विलो॑हित । नमः । ते । अस्तु । भगवः । याः । ते । स॒हस्र॑म् । हे॒तयः । अ॒न्यम् । अ॒स्मत् । नि । व॑पन्तु । ताः ।