नम॑: प॒र्णाय॑ च पर्णश॒दाय॑ च॒ नम॑ उद्गु॒रमा॑णाय चाभिघ्न॒ते च॒ नम॑ आखिद॒ते च॑ प्रखिद॒ते च॒ नम॑ इषु॒कृद्भ्यो॑ धनु॒ष्कृद्भ्य॑श्च वो॒ नमो॒ नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒ᳪ हृद॑येभ्यो॒ नमो॑ विचिन्व॒त्केभ्यो॒ नमो॑ विक्षिण॒त्केभ्यो॒ नम॑ आनिर्ह॒तेभ्य॑:
námaḥ párṇāya ca parṇaśadā̀ya ca náma udguramāṇā̀ya cābhighnaté ca náma ākhidaté ca prakhidaté ca náma iṣukṛ́dbhyo dhanuṣkṛ́dbhyaś ca vo námo námo vaḥ kirikébhyo devā́nāṃ hṛ́dayyebhyo námo vicinvátkebhyo námo vikṣiṇátkebhyo náma ānírhatébhyaḥ
Sembah sujud kepada daun, dan kepada dia yang bersemayam pada daun; sembah sujud kepada dia yang bangkit menyerbu dan kepada dia yang memukul; sembah sujud kepada dia yang menikam dan kepada dia yang menikam dengan pedih; sembah sujud kepada kamu, para pembuat anak panah dan para pembuat busur; sembah sujud, sembah sujud kepada kamu, wahai Kirika, yang berada di hati para dewa.
नमः । पर्णाय । च । पर्णशदाय । च । नमः । उद्गुरमाणाय । च । अभिघ्नते । च । नमः । आखिदते । च । प्रखिदते । च । नमः । इषुकृद्भ्यः । धनुष्कृद्भ्यः । च । वः । नमः । नमः । वः । किरिकेभ्यः । देवानाम् । हृदय्येभ्यः । नमः । विचिन्वत्केभ्यः । नमः । विक्षिणत्केभ्यः । नमः । आनिर्हतेभ्यः