नमो॑ ह्र॒स्वाय॑ च वाम॒नाय॑ च॒ नमो॑ बृह॒ते च॒ वर्षी॑यसे च॒ नमो॑ वृ॒द्धाय॑ च स॒वृधे॑ च॒ नमोऽग्र्या॑य च प्रथ॒माय॑ च
námo hrasvā́ya ca vāmanā́ya ca námo bṛhaté ca várṣīyase ca námo vṛddhā́ya ca savṛ́dhe ca námo’gryā́ya ca prathamā́ya ca
Sembah hormat kepada Yang rendah, dan kepada Yang kerdil; sembah hormat kepada Yang agung, dan kepada Yang lebih perkasa; sembah hormat kepada Yang telah dewasa, dan kepada Dia yang turut menumbuhkan; sembah hormat kepada Yang terunggul, dan kepada Yang pertama.
नमः । ह्रस्वाय । च । वामनाय । च । नमः । बृहते । च । वर्षीयसे । च । नमः । वृद्धाय । च । स-वृधे । च । नमः । अग्र्याय । च । प्रथमाय । च