परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान्वृ॑णक्तु वि॒श्वत॑: । अथो॒ य इ॑षु॒धिस्तवा॒रे अ॒स्मन्नि धे॑हि॒ तम्
pári te dhánvano heṭír asmā́n vṛṇaktu viśvátas | átho yá iṣudhís tavā́re asmán ní dhehi tám
Di sekeliling kami, dari segala arah, biarlah senjata busur-Mu menangkis (segala bahaya) daripada kami; dan sarung anak panah-Mu itu, wahai musuh, letakkanlah jauh daripada kami—ketepikanlah ia.
परि । ते । धन्वनः । हेतिः । अस्मान् । वृणक्तु । विश्वतः । अथो इति । यः । इषुधिः । तव । अरे । अस्मन् । नि । धेहि । तम्