नभ॑श्च नभ॒स्य॒श्च॒ वार्षि॑कावृ॒तू अ॒ग्नेर॑न्तः श्ले॒षो॒ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धय॒: कल्प॑न्ताम॒ग्नय॒: पृथ॒ङ्नम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः। ये अ॒ग्नय॒: सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे | वार्षि॑कावृ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वे सी॑दतम्
nábhaś ca nabhasyáś ca vārṣikā́v ṛtū́ agnér antaḥ śléṣo ’si | kálpetāṃ dyāvā-pṛthivī́ kálpantām ā́pa óṣadhayaḥ kálpantām agnáyaḥ pṛtháṅ náma jyáiṣṭhyāya sá-vratāḥ | yé agnáyaḥ sá-manaso ’ntárā dyāvā-pṛthivī́ imé | vārṣikā́v ṛtū́ abhí-kálpamānā índram iva devā́ abhí-saṃvíśantu táyā devátayā ’ṅgirasvád dhruvé sīdatam
Langit dan kekuatan Langit, dua musim hujan—engkau ialah ikatan batin Agni. Semoga Langit dan Bumi tersusun sewajarnya; semoga Air tersusun; semoga Tumbuh-tumbuhan tersusun; semoga Api-api tersusun—masing-masing dengan penghormatan, demi keutamaan, seia dalam satu laku. Api-api itu yang sejiwa di antara Langit dan Bumi ini—tatkala dua musim hujan diselaraskan—semoga para dewa memasukinya bersama, bagaikan (mereka memasuki) Indra. Dengan dewa itu, menurut cara para Aṅgirasa, duduklah teguh pada Dhruvā.
नभः । च । नभस्यः । च । वार्षिके । ऋतू । अ॒ग्नेः । अ॒न्तः । श्ले॒षः । अ॒सि । कल्पेताम् । द्यावा॑पृथिवी । कल्पन्ताम् । आपः । ओषधयः । कल्पन्ताम् । अग्नयः । पृथक् । नमः । ज्यैष्ठ्याय । सव्रताः । ये । अग्नयः । समनसः । अन्तरा । द्यावा॑पृथिवी । इमे । वार्षिके । ऋतू । अ॒भि॒कल्प॑मानाः । इन्द्रम् । इव । देवाः । अ॒भि॒संवि॑शन्तु । तया । देवतया । अङ्गिरस्वत् । ध्रुवे । सीदतम्