वरु॑णस्यो॒त्तम्भ॑नमसि वरु॑णस्य स्कम्भ॒सर्ज॑नी स्थो वरु॑णस्य ऋत॒सद॑न्यसि॒ वरु॑णस्य ऋत॒सद॑नमसि वरु॑णस्य ऋत॒सद॑न॒मा सी॑द
váruṇasyo·ttámbhanam asi váruṇasya skambha·sárjanī sthó váruṇasya ṛ·tá·sádanī asi váruṇasya ṛ·tá·sádanam asi váruṇasya ṛ·tá·sádanam ā́ sīd
तू वरुणाचे उत्तम्भन (आधार-स्थापन) आहेस; तुम्ही वरुणाचे स्कम्भ-सर्जनी (आधार घडविणारे) आहात. तू वरुणाचे ऋत-सदन आहेस; तू वरुणाचे ऋत-सदन आहेस. वरुणाच्या ऋत-सदनावर बस.
वरु॑णस्य । उ॒त्तम्भ॑नम् । अ॒सि॒ । वरु॑णस्य । स्क॒म्भ॒-सर्ज॑नी । स्थः॒ । वरु॑णस्य । ऋ॒त॒-सद॑नी । अ॒सि॒ । वरु॑णस्य । ऋ॒त॒-सद॑नम् । अ॒सि॒ । वरु॑णस्य । ऋ॒त॒-सद॑नम् । आ । सी॑द ।