वने॑षु॒ व्यन्तरि॑क्षं ततान॒ वाज॒मर्व॑त्सु॒ पय॑ उ॒स्रिया॑सु । हृ॒त्सु क्रतुं॒ वरु॑णो वि॒क्ष्व॒ग्निं दि॒वि सूर्य॑मदधा॒त् सोम॒मद्रौ॑
vanéṣu vy antárikṣaṁ tatāna vā́jam árvatsu páya usríyāsu | hṛtsú krátum váruṇo víkṣv agníṁ diví sū́ryam adadhāt sómam ádrau ||
वनांत त्याने अंतरिक्ष पसरविले; अश्वांत वाज (पुरस्कार) ठेवला, तांबूस गायींत दूध ठेवले. हृदयांत वरुणाने क्रतु (संकल्प) ठेवला; जन/कुळांत अग्नी ठेवला; दिव्यात सूर्य, आणि अद्री (दगड)ावर सोम स्थापन केला.
वनेषु । वि । अन्तरिक्षम् । ततान । वाजम् । अर्वत्सु । पयः । उस्रियासु । हृत्सु । क्रतुम् । वरुणः । विक्षु । अग्निम् । दिवि । सूर्यम् । अदधात् । सोमम् । अद्रौ ।