पुन॒र्मन॒: पुन॒रायु॑र्म॒ आऽग॒न् पुन॑: प्रा॒णः पुन॑रा॒त्मा म॒ आऽग॒न् पुन॒श्चक्षु॒: पुन॒: श्रोत्रं॑ म॒ आऽग॑न् । वै॒श्वा॒न॒रो अद॑ब्धस्तनू॒पा अ॒ग्निर्न॑: पातु दुरि॒ताद॑व॒द्यात् ।
púnar mánaḥ púnar ā́yur má ā́gan púnaḥ prāṇáḥ púnar ātmā́ má ā́gan púnaś cákṣuḥ púnaḥ śrótraṃ má ā́gan | vaiśvānaráḥ ádabdhas tanūpā́ agnír naḥ pātu duritā́d avadyā́t |
पुन्हा माझे मन माझ्याकडे येवो; पुन्हा माझे आयुष्य (आयु) माझ्याकडे येवो. पुन्हा प्राण, पुन्हा आत्मा माझ्याकडे येवो; पुन्हा माझी दृष्टी, पुन्हा माझे श्रवण माझ्याकडे येवो. अबाधित, तनूपा (देह-रक्षक) वैश्वानर अग्नी आम्हांला दुःखापासून आणि निंद्य दोषापासून रक्षो.
पुनः । मनः । पुनः । आयुः । मे । आ-गन् । पुनः । प्राणः । पुनः । आत्मा । मे । आ-गन् । पुनः । चक्षुः । पुनः । श्रोत्रम् । मे । आ-गन् । वैश्वानरः । अदब्धः । तनू-पाः । अग्निः । नः । पातु । दुरितात् । अवद्यात् ।