य॒माय॑ त्वा म॒खाय॑ त्वा॒ सूर्य॑स्य त्वा॒ तप॑से । दे॒वस्त्वा॑ सवि॒ता मध्वा॑नक्तु पृथि॒व्याः स॒ᳪस्पृश॑स्पाहि । अ॒र्चिर॑सि शो॒चिर॑सि॒ तपो॑ऽसि
yamā́ya tvā makhā́ya tvā sū́ryasya tvā tápase | devás tvā savitā́ madhvā́naktu pṛthivyā́ḥ saṃspṛ́śaḥ pāhi | arcír asi śocír asi tápo ’si |
यमासाठी तुला; मखासाठी तुला; सूर्यासाठी तुला—तपस् (उष्णता/तेज) यासाठी। देव सविता तुला मधुने अभिषिक्त करो; तू पृथ्वीच्या संस्पर्शाचे रक्षण कर। तू अर्चि (ज्वाला) आहेस; तू शोचि (दीप्ती) आहेस; तू तपस् आहेस।
यमाय । त्वा । मखाय । त्वा । सूर्यस्य । त्वा । तपसे । देवः । त्वा । सविता । मध्वा । अनक्तु । पृथिव्याः । संस्पृशः । पाहि । अर्चिः । असि । शोचिः । असि । तपः । असि ।