इ॒न्द्रा॒ग्नी मि॒त्रावरु॒णादि॑ति॒ᳪ स्व॑: पृथि॒वीं द्यां म॒रुत॒: पर्व॑ताँ२ अ॒पः । हु॒वे विष्णुं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॒ भगं॒ नु शᳪस॑ᳪ सवि॒तार॑मू॒तये॑
índrāgnī mitrā́varuṇā́ditíṃ svàḥ pṛthivī́ṃ dyā́ṃ marútaḥ párvatāṁś cā́paḥ | huvè víṣṇuṃ pū́ṣaṇaṃ bráhmaṇaspátim bhágaṃ nú śáṃsaṃ savitā́ram ūtáye ||
इंद्र व अग्नी, मित्र व वरुण, अदिती, स्वः (स्वर्ग), पृथ्वी, द्यौ (आकाश), मरुत, पर्वत आणि आपः (जल)—यांना मी आवाहन करतो. तसेच विष्णु, पूषण, ब्रह्मणस्पती, भग—यांनाही मी बोलावतो; मी स्तुती उच्चारतो आणि सहाय्यासाठी सवित्याचे आवाहन करतो.
इन्द्रा-अग्नी । मित्रा-वरुणा । अदितिम् । स्वः । पृथिवीम् । द्याम् । मरुतः । पर्वतान् । आपः । हुवे । विष्णुम् । पूषणम् । ब्रह्मणस्पतिम् । भगम् । नु । शंसम् । सवितारम् । ऊतये ।