यद्ग्रामे॒ यदर॑ण्ये॒ यत्स॒भायां॒ यदि॑न्द्रि॑ये । यदेन॑श्चकृ॒मा व॒यमि॒दं तदव॑यजामहे॒ स्वाहा॑
yád grāmé yád áraṇye yát sabhā́yāṃ yád indríye | yád énaś cakṛmā vayám idáṃ tád avayajāmahe svā́hā
ग्रामात, अरण्यात, सभेत, आणि इंद्रिय-बलात—आम्ही जे काही पाप/दोष केले आहे, त्याच अपराधाचे आम्ही येथे या आहुतीने प्रायश्चित्त करीत आहोत. स्वाहा।
यत् । ग्रामे । यत् । अरण्ये । यत् । सभायाम् । यत् । इन्द्रिये । यत् । एनः । चकृमा । वयम् । इदम् । तत् । अव-यजामहे । स्वाहा