रेव॑ती॒ रम॑ध्वम॒स्मिन्योना॑व॒स्मिन् गो॒ष्ठेऽस्मिंल्लो॒के॒ऽस्मिन्क्षये॑ । इहै॒व स्त॒ माप॑गात
révatī́ ramadhvam asmín yónāv asmín góṣṭhe ’smíṁl lóke ’smín kṣáye | iháiva stá mā́pagāta
हे रेवती (समृद्धिदायिनी) शक्तींनो, तुमच्या या स्वकीय योनि/आसनात—या गोष्ठात, या लोकी, या निवासात—रममाण व्हा. इथेच, इथेच स्थिर रहा; दूर जाऊ नका.
रेव॑तीः । रम॑ध्वम् । अ॒स्मिन् । योना॑व् । अ॒स्मिन् । गो॒ष्ठे । अ॒स्मिन् । लो॒के । अ॒स्मिन् । क्षये॑ । इ॒ह । ए॒व । स्त॒ । मा । अप॑गात ।