सं त्वम॑ग्ने॒ सूर्य॑स्य॒ वर्च॑सागथा॒ः समृषी॑णाᳪ स्तु॒तेन॑ । सं प्रि॒येण॒ धाम्ना॒ सम॒हमायु॑षा॒ सं वर्च॑सा॒ सं प्र॒जया॒ सᳪ रा॒यस्पोषे॑ण ग्मिषीय ॥
saṃ tvám agne sū́ryasya várcasāgathā́ḥ sam ṛṣī́ṇāṃ stuténa | saṃ priyéṇa dhā́mnā sam ahám ā́yuṣā saṃ várcasā saṃ prajā́yā saṃ rā́yas-poṣéṇa gmiṣīya ||
हे अग्ने! संयोगाने तू सूर्याचे वर्चस् प्राप्त केले आहेस; संयोगाने (तू) ऋषींच्या स्तुतीने (त्यांच्याशी) एकरूप आहेस. तुझ्या प्रिय धाम (नियत विधान) यासह संयोगाने—मी आयुष्य, वर्चस्, प्रजा आणि रायस्पोष (धनवृद्धी व समृद्धी) यांसह संयोगाने प्राप्त होवो.
सम् । त्वम् । अग्ने । सूर्यस्य । वर्चसा । अगथाः । सम् । ऋषीणाम् । स्तुतेन । सम् । प्रिय॑ेण । धाम्ना । सम् । अहम् । आयुषा । सम् । वर्चसा । सम् । प्रजया । सम् । रायः-पोषेण । ग्मिषीय ।