य इ॒मे द्यावा॑पृथि॒वी जनि॑त्री रूपै॒रपि॑ᳪश॒द्भुव॑नानि॒ विश्वा॑ । तम॒द्य हो॑तरिषि॒तो यजी॑यान् दे॒वं त्वष्टा॑रमि॒ह य॑क्षि वि॒द्वान्
yá imé dyā́vā-pṛthivī́ janítrī rū́pair ápiṃśad bhúvanāni víśvā | tám adyá hotar iṣitó yájīyān deváṃ tváṣṭāram ihá yákṣi vidvā́n ||
ज्याने या द्यावा-पृथिवी—दोन जनित्री—यांच्या द्वारा सर्व भुवने सुंदर रूपांनी घडविली, त्या अधिक यजनीय देव त्वष्ट्याला, आज, हे होतृ, प्रेरित होऊन, येथे जाणकार होऊन यज.
यः । इ॒मे इति॑ । द्यावा॑पृथि॒वी इति॑ । जनि॑त्री इति॑ । रूपैः॑ । अपि॑ᳪशत् । भुव॑नानि । विश्वा॑ । तम् । अ॒द्य । होत॑र् । इ॒षि॒तः । यजी॑यान् । दे॒वम् । त्वष्टा॑रम् । इ॒ह । य॒क्षि । वि॒द्वान्