यदक्र॑न्दः प्रथ॒मं जाय॑मान उ॒द्यन्त्स॑मु॒द्रादु॒त वा॒ पुरी॑षात् । श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑प॒स्तुत्यं॒ महि॑ जा॒तं ते॑ अर्वन्
yád ákrandaḥ prathamáṃ jā́yamāna udyán samudrā́d utá vā́ purīṣā́t | śyenásya pakṣā́ hariṇásya bāhū́ upastutyáṃ máhi jātáṃ te arvan |
तू प्रथम जन्मताना जेव्हा आक्रंदन केलेस—समुद्रातून उदित होऊन किंवा चिखलातूनही—(तेव्हा) श्येनाचे पंख, हरिणाचे बाहू; हे अर्वन्, तुझ्यापासून जे महान जन्मले आहे ते स्तुत्य आहे.
यत् । अक्र॑न्दः । प्र॒थ॒मम् । जाय॑मानः । उ॒द्यन् । स॒मु॒द्रात् । उ॒त । वा॒ । पुरी॑षात् । श्ये॒नस्य॑ । प॒क्षाः । ह॒रि॒णस्य॑ । बा॒हू । उ॒प॒-स्तुत्यम् । महि॑ । जा॒तम् । ते॒ । अ॒र्व॒न्