म॒युः प्रा॑जाप॒त्य उ॒लो ह॒लिक्ष्णो॑ वृषद॒ᳪशस्ते धा॒त्रे दि॒शां क॒ङ्को धुङ्क्षा॑ग्ने॒यी क॑ल॒विङ्को॑ लोहिता॒हिः पु॑ष्करसा॒दस्ते त्वा॒ष्ट्रा वा॒चे क्रुञ्च॑:
mayúḥ prājāpatyá uló halíkṣṇo vṛṣadáṃśas te dhātré diśā́ṃ kaṅkó dhuṅkṣā́gneyī kalavíṅko lohitāhíḥ puṣkara-sā́das te tvāṣṭrā́ vā́ce kruñcáḥ
मयुः (मोर) प्रजापतीचा; घुबड; हलिक्ष्ण; वृषदंश—हे धातृसाठी (अर्पण) आहेत. दिशांसाठी कङ्क (एक पक्षी); अग्नेयी-धुङ्क्षा; कलविङ्क; लोहित-अहि (लाल सर्प); पुष्करसाद (कमळ-निवासी)—हे त्वष्टृचे आहेत. वाचेसाठी क्रुञ्च (सारस).
म॒युः । प्रा॑जाप॒त्यः । उ॒लः । ह॒लिक्ष्णः॑ । वृषद॒ᳪशः । ते । धा॒त्रे । दि॒शाम् । क॒ङ्कः । धुङ्क्षा॑ । आ॒ग्ने॒यी । क॑ल॒विङ्कः॑ । लोहित-आ॒हिः । पु॑ष्कर-सा॒दः । ते । त्वा॒ष्ट्राः । वा॒चे । क्रुञ्चः॑