आ या॒त्विन्द्रोऽव॑स॒ उप॑ न इ॒ह स्तु॒तः स॑ध॒मद॑स्तु॒ शूर॑: । वा॒वृ॒धा॒नस्तवि॑षी॒र्यस्य॑ पू॒र्वीर्द्यौर्न क्ष॒त्रम॒भिभू॑ति॒ पुष्या॑त्
ā́ yātu índro’váse úpa na ihá stutáḥ sadhámadas tu śū́raḥ | vāvṛdhānáḥ taviṣī́r yásya pū́rvīr dyáur ná kṣatrám abhíbhūti púṣyāt
इंद्र आमच्या रक्षण/सहाय्यासाठी येथे आमच्याकडे यावा—येथे स्तुत होऊन—वीर, सधमद (सामूहिक सोम-आनंद)चा सहचर. जो वाढत राहतो, ज्याच्या अनेक शक्ती प्राचीन आहेत: त्याचे क्षत्र/अधिकार आकाशासारखे, प्रबळ पराक्रमाने फोफावो.
आ । यातु । इन्द्रः । अवसे । उप । नः । इह । स्तुतः । सध-मदः । तु । शूरः । वावृधानः । तविषीः । यस्य । पूर्वीः । द्यौः । न । क्षत्रम् । अभि-भूति । पुष्यात्