अ॒पो अ॒द्यान्व॑चारिष॒ᳪ रसे॑न॒ सम॑सृक्ष्महि । पय॑स्वानग्न॒ आऽग॑मं॒ तं मा॒ सᳪ सृ॑ज॒ वर्च॑सा प्र॒जया॑ च॒ धने॑न च
ápo adyā́nv acāriṣaṃ rásena sámasṛkṣmahi | páyasvān agne ā́ ’gamaṃ táṃ mā sáṃ sṛja várcasā prajā́yā ca dhánena ca
आज मी या आपः (जलां)चा अनुगमन केला; त्यांच्या रसाने आम्ही एकरूप झालो. पोषणसमृद्ध अग्निकडे मी आलो आहे; मला वर्चस् (तेज), प्रजा आणि धन यांशी संयुक्त कर.
अपः । अद्य । अन्व्-अचारिषम् । रसेन । सम् । असृक्ष्महि । पयस्वान् । अग्ने । आ । अगमम् । तम् । मा । सम् । सृज । वर्चसा । प्रजया । च । धनेन । च